Sri Rudram Namakam
कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थं वैश्वदेवं काण्डं पञ्चमः प्रपाठकः
Kṛṣṇa Yajurvedīya Taittirīya Saṃhitā — the fourth Kāṇḍa, Vaiśvadeva, and the fifth Prapāṭhaka.
ॐ नमो भगवते रुद्राय ॥
Om. Salutations to Bhagavān Rudra.
नमस्ते रुद्र मन्यव उतोता इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥
Salutations to You, O Rudra, and to Your powerful force. Salutations to Your arrow. Salutations to Your bow and to Your mighty arms.
या त इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥
May the most auspicious arrow of Yours and Your auspicious bow bring welfare to us. O Rudra, bless and protect us through Your benevolent weapons.
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥
O Rudra, may Your auspicious, peaceful and non-terrifying form, which removes sin, look upon us with compassion and bring us peace.
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिग्ंसीः पुरुषं जगत् ॥
O Lord of the mountains, make the arrow that You hold in Your hand auspicious. O Protector of the mountains, may it not harm any person or living being in the world.
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ॥
O Lord of the mountains, we address You with auspicious words. May the entire world become free from disease and may all beings be peaceful and benevolent.
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीग्श्च सर्वाञ्जम्भयन्थ्सर्वाश्च यातुधान्यः ॥
The Divine Physician, the foremost protector and healer, has spoken. May He subdue all serpents and destroy all harmful and hostile forces.
असौ यस्ताम्रो अरुण उत बभ्रुस्सुमङ्गलः ।
ये चेमाग्ं रुद्रा अभितो दिक्षु श्रिता-स्सहस्रशोऽवैषाग्ं हेड ईमहे ॥
That Rudra who appears reddish, copper-coloured and tawny, and who is supremely auspicious, is present in all directions in countless forms. We seek protection from His displeasure.
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥
That Rudra who moves across the sky, blue-necked and red in appearance, is seen by the cowherds and by those who draw water. May all beings behold Him, and may His vision bring grace and welfare to us.
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः ॥
Salutations to the blue-necked, thousand-eyed and benevolent Lord. Salutations also to all His divine attendants and manifestations.
प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥
O Lord, loosen the string from both ends of Your bow. O Blessed One, remove and cast away the arrows that You hold in Your hands.
अवतत्य धनुस्त्वग्ं सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो न स्सुमना भव ॥
O thousand-eyed Lord, lower Your bow and remove the sharpness from Your arrows. Become auspicious and gracious toward us.
विज्यं धनुः कपर्दिनो विशल्यो बाणवाग्ं उत ।
अनेशन्नस्येषव आभुरस्य निषङ्गथिः ॥
May the bow of the matted-haired Lord be without its string, may His arrows lose their sharpness, and may His quiver and weapons become harmless toward us.
या ते हेतिमीढुष्टम हस्ते बभूव ते धनुः ।
तयाऽस्मान् विश्वतस्त्वमयक्ष्मया परिब्भुज ॥
O Most Benevolent Lord, protect us from every direction with the weapon and bow that You hold, making us free from disease and affliction.
नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥
Salutations to Your powerful weapon, whether drawn or undrawn. Salutations to both Your mighty arms and to Your bow.
परि ते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवार्े अस्मन्निधेहि तम् ॥ १ ॥
May the weapon of Your bow turn away from us on every side. And may You place Your quiver of arrows away from us.
श्री शम्भवे नमः ॥
Salutations to Śrī Śambhu, the benevolent source of auspiciousness.
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय [शङ्कराय] श्रीमन्महादेवाय नमः ।
Salutations to Bhagavān, the Lord of the universe, Mahādeva, the three-eyed Lord, the destroyer of Tripura, the Lord of the three sacred fires, Kālāgnirudra, the blue-throated One, the conqueror of death, the Lord of all, Sadāśiva, Śaṅkara and the glorious Mahādeva.
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो ।
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो ।
नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो ।
नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो ।
नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो ।
नमो भवस्य हेत्यै जगतां पतये नमो ।
नमो रुद्रायातताविने क्षेत्राणां पतये नमो ।
नमस्सूतायाहन्त्याय वनानां पतये नमो ।
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो ।
नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो ।
नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो ।
नम उच्छैर्घोषायाक्रन्दयते पत्तीनां पतये नमो ।
नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः ॥ २ ॥
Salutations to the golden-armed Lord, the commander and the Lord of the directions. Salutations to the Lord of trees and creatures. Salutations to the radiant Lord who governs the paths. Salutations to the Lord who nourishes beings and food. Salutations to the Lord of prosperity, the Lord of the world and the Lord of the fields. Salutations to Rudra, the Lord of forests, trees, paths, medicines, waters, moving beings and all forms of life.
नमस्सहमनाय निव्याधिन आव्याधिनीना पतये नमो ।
नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो ।
नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो ।
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो ।
नमो निचेरवे परिचरायारण्याना पतये नमो ।
नमस्सृकाविभ्यो जिघाग्ंसद्भ्यो मुष्णतां पतये नमो ।
नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो ।
नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो ।
नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो ।
नम आतन्वानेभ्यः प्रतिदधानाभ्यश्च वो नमो ।
नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो ।
नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो ।
नम आसीनेभ्यः शयानेभ्यश्च वो नमो ।
नमस्स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो ।
नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो ।
नमस्सभाभ्यस्सभापतिभ्यश्च वो नमो ।
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३ ॥
Salutations to the Lord who manifests among those who confront, pursue, protect, move by night, carry weapons, travel through forests, sit, sleep, awaken, stand, run and assemble. Salutations to the Lord of horses and to the Lord of those who govern them.
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो ।
नम उगणाभ्यस्तृग्ंहतीभ्यश्च वो नमो ।
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो ।
नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो ।
नमो गणेभ्यो गणपतिभ्यश्च वो नमो ।
नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो ।
नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो ।
नमो रथिभ्योऽरथेभ्यश्च वो नमो ।
नमो रथेभ्यो रथपतिभ्यश्च वो नमो ।
नमस्सेनाभ्यस्सेनानिभ्यश्च वो नमो ।
नमः क्षत्तृभ्यस्संग्रहीतृभ्यश्च वो नमो ।
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो ।
नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो ।
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो ।
नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो ।
नमो मृगयुभ्यश्श्वनिभ्यश्च वो नमो ।
नमश्श्वभ्यश्श्वपतिभ्यश्च वो नमः ॥ ४ ॥
Salutations to the many forms of Rudra among groups, hosts, armies, charioteers, craftsmen, makers of weapons, hunters, dogs and those who govern them. Salutations to all His diverse and universal manifestations.
नमो भवाय च रुद्राय च ।
नमश्शर्वाय च पशुपतये च ।
नमो नीलग्रीवाय च शितिकण्ठाय च ।
नमः कपर्दिने च व्युप्तकेशाय च ।
नमस्सहस्राक्षाय च शतधन्वने च ।
नमो गिरिशाय च शिपिविष्टाय च ।
नमो मीढुष्टमाय चेषुमते च ।
नमो ह्रस्वाय च वामनाय च ।
नमो बृहते च वर्षीयसे च ।
नमो वृद्धाय च संवृद्ध्वने च ।
नमो अग्रियाय च प्रथमाय च ।
नम आशवे चाजिराय च ।
नमश्शीघ्रियाय च शीभ्याय च ।
नम ऊर्म्याय चावस्वन्याय च ।
नमस्स्रोतस्याय च द्वीप्याय च ॥ ५ ॥
Salutations to Rudra as Bhava and Rudra, Śarva and Paśupati, the blue-necked and white-throated Lord, the matted-haired and shaven-haired forms, the thousand-eyed and mighty-armed Lord, the Lord of the mountains, the generous One, the swift and the subtle, the great and the ancient, the foremost and the first, the rapid and energetic, the waves and the flowing waters, and the Lord who exists upon islands and in streams.
नमो ज्येष्ठाय च कनिष्ठाय च ।
नमः पूर्वजाय चापरजाय च ।
नमो मध्यमाय चापगल्भाय च ।
नमो जघन्याय च बुध्नियाय च ।
नमस्सोभ्याय च प्रतिसर्याय च ।
नमो याम्याय च क्षेम्याय च ।
नम उर्वर्याय च खल्याय च ।
नमश्श्लोक्याय चाऽवसान्याय च ।
नमो वन्याय च कक्ष्याय च ।
नमश्श्रवाय च प्रतिश्रवाय च ।
नम आशुषेणाय चाशुरथाय च ।
नमश्शूराय चावभिन्दते च ।
नमो वर्मिणे च वरूथिने च ।
नमो बिल्मिने च कवचिने च ।
नमश्श्रुताय च श्रुतसेनाय च ॥ ६ ॥
Salutations to Rudra as the eldest and youngest, the first and later-born, the middle and humble, the lowest and foundation, the peaceful and protective, the prosperous and fertile, the celebrated and concluding, the forest-dwelling and hidden, the heard and echoed, the swift-armied and swift-charioted, the heroic, armoured and protected Lord.
नमो दुन्दुभ्याय चाहनन्याय च ।
नमो धृष्णवे च प्रमृशाय च ।
नमो दूताय च प्रहिताय च ।
नमो निषङ्गिणे चेषुधिमते च ।
नमस्तीक्ष्णेषवे चायुधिने च ।
नमस्स्वायुधाय च सुधन्वने च ।
नमस्स्रुत्याय च पथ्याय च ।
नमः काट्याय च नीप्याय च ।
नमस्सूद्याय च सरस्याय च ।
नमो नाद्याय च वैशन्ताय च ।
नमः कूप्याय चावट्याय च ।
नमो वर्ष्याय चावर्ष्याय च ।
नमो मेघ्याय च विद्युत्याय च ।
नम ईध्रियाय चातप्याय च ।
नमो वात्याय च रेष्मियाय च ।
नमो वास्तव्याय च वास्तुपाय च ॥ ७ ॥
Salutations to Rudra in the forms of the drum, the strong, the messenger, the armed warrior, the bearer of sharp weapons, the wielder of the bow, the Lord of roads and paths, the Lord of waters, lakes and wells, the rain-bearing and cloud-bearing forms, lightning, heat, wind and the protector of dwellings.
नमस्सोमाय च रुद्राय च ।
नमस्ताम्राय चारुणाय च ।
नमश्शङ्गाय च पशुपतये च ।
नम उग्राय च भीमाय च ।
नमो अग्रेवधाय च दूरेवधाय च ।
नमो हन्त्रे च हनीयसे च ।
नमो वृक्षेभ्यो हरिकेशेभ्यो ।
नमस्ताराय ।
नमश्शम्भवे च मयोभवे च ।
नमश्शङ्कराय च मयस्कराय च ।
नमश्शिवाय च शिवतराय च ।
नमस्तीर्थ्याय च कूल्याय च ।
नमः पार्याय चावार्याय च ।
नमः प्रतरणाय चोत्तरणाय च ।
नम आतार्याय चालाद्याय च ।
नमश्शष्प्याय च फेन्याय च ।
नमस्सिकत्याय च प्रवाह्याय च ॥ ८ ॥
Salutations to Rudra as Soma, the reddish and beautiful One, Paśupati, the fierce and formidable One, the destroyer of evil, the Lord of trees, Śambhu, the source of happiness, Śaṅkara, the giver of welfare, Śiva and the most auspicious Śiva. Salutations to the Lord present in sacred waters, riverbanks, crossings, streams, foam and flowing waters.
नम इरिण्याय च प्रपथ्याय च ।
नमः किंशिलाय च क्षयणाय च ।
नमः कपर्दिने च पुलस्तये च ।
नमो गोष्ठ्याय च गृह्याय च ।
नमस्तल्प्याय च गेह्याय च ।
नमः काट्याय च गह्वरेष्ठाय च ।
नमो ह्रदय्याय च निवेष्प्याय च ।
नमः पांसव्याय च रजस्याय च ।
नमश्शुष्क्याय च हरित्याय च ।
नमो लोप्याय चोलप्याय च ।
नम ऊर्व्याय च सूर्म्याय च ।
नमः पर्ण्याय च पर्णशद्याय च ।
नमोऽपगुरमाणाय चाभिघ्नते च ।
नम आखिदते च प्रखिदते च ।
नमो वः किरिकेभ्यो देवानां हृदयेभ्यो ।
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो ।
नम आनिर्हतेभ्यो नम आमिवत्केभ्यः ॥ ९ ॥
Salutations to Rudra in the barren lands, roads, rocky places, settlements, cowpens, houses, beds, caves, dust, dry and green places, mountains and fertile lands. Salutations to the divine forces dwelling in the hearts of the gods and to all subtle forms that move, search, protect and destroy affliction.
द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्मा अरोग्मो एषां किञ्चनाममत् ।
O Lord of nourishment, O blue-red Rudra, do not allow fear or suffering to come upon these people or these animals. May nothing among them be harmed or afflicted.
या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥
May Your auspicious form, O Rudra, which is the universal remedy, bring healing and grace to us. Through that healing form, bless us with life and well-being.
इमाग्ं रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नश्शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽस्मिन्ननातुरम् ।
We offer our prayer to the powerful, matted-haired Rudra, the protector of heroes. May peace prevail among the two-footed and four-footed beings, and may this entire community flourish, healthy and free from disease.
मृडा नो रुद्रोऽत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ।
O Rudra, be gracious to us and grant us happiness. We worship You with reverence. May we attain the blessings and welfare that our ancestors and Manu sought through Your divine guidance.
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोऽवधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ।
Do not harm our elders or our children, our young or mature beings. Do not harm our father or mother. O Rudra, do not cause injury to our beloved people or to our bodies.
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितोऽवधीर् हविष्मन्तो नमसा विधेम ते ।
Do not harm our children, descendants, life, cattle or horses. O Rudra, do not harm our heroes in anger. We approach You with offerings and reverence.
आरात्ते गोग्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूध्यधा च नः शर्म यच्छ द्विबर्हाः ॥
May Your destructive force remain far from us. O Lord who protects the community, grant us Your favour. Protect us, speak for our welfare, and grant us abundant shelter and peace.
स्तुहि श्रुतं गर्तसदं युवानमृगन्न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानोऽन्यन्ते अस्मन्निवपन्तु सेनाः ॥
Praise the renowned, youthful and powerful Rudra, who dwells in the depths and is formidable like a wild creature. O Rudra, be gracious to the worshipper who praises You, and may Your forces turn away from us.
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥
May Rudra’s weapon protect us from every side. May harmful thoughts and destructive forces remain away from us. O Benevolent Lord, protect the stable and prosperous, and bless our children and descendants.
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥
O Most Generous and Most Auspicious Lord, be gracious and benevolent toward us. Lay down Your weapons upon the highest tree, put on Your sacred skin, and come to us carrying Your bow Pināka.
विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ॥
O Scattering One, O Red-hued Lord, salutations to You. May the thousands of Your weapons be directed away from us.
सहस्राणि सहस्रशो बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ १० ॥
O Blessed Lord, You possess thousands upon thousands of arms and weapons. As their supreme Master, turn the faces of all those weapons away from us.
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषाग्ं सहस्रयोजनेऽवधन्वानि तन्मसि ।
There are thousands upon thousands of Rudras dwelling upon the earth. We place their bows at a distance of a thousand yojanas from us.
अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि ।
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।
In this vast expanse and in the intermediate space abide the forms of Bhava. The blue-necked, white-throated Śarva forms move upon the earth below.
नीलग्रीवाः शितिकण्ठा दिवग्ं रुद्रा उपश्रिताः ।
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।
The blue-necked and white-throated Rudras abide in the heavens. Those golden-brown, blue-necked and red forms dwell within the trees.
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
ये पथां पथिरक्षय ऐलबृदा यव्युधः ।
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।
य एतावन्तश्च भूयाग्ंसश्च दिशो रुद्रा वितस्थिरे ।
तेषाग्ं सहस्रयोजनेऽवधन्वानि तन्मसि ।
Salutations to the Rudras who are the lords of beings, who possess various forms, who move among food and living beings, who protect the paths and travellers, who move through sacred places carrying weapons, and who are spread throughout all directions. We place their bows at a distance of a thousand yojanas from us.
नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ ११ ॥
Salutations to the Rudras who dwell upon the earth, in the atmosphere and in heaven, whose food is the wind and whose arrows are the rain. Salutations to them in the eastern, southern, western, northern and upward directions. May they bless us with peace. Whoever we hate and whoever hates us, we place that hostility under their control.
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा अमृतात् ।
We worship the three-eyed Lord who is fragrant and who nourishes and strengthens all beings. May He liberate us from the bondage of death, just as a ripe cucumber naturally separates from its vine, but may He not separate us from immortality.
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ।
Salutations to that Rudra who dwells in fire, in the waters, in the medicinal herbs, and who has entered and pervaded all the worlds.
तमु ष्टुहि यः स्विषुस्सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥
Praise that Rudra who possesses the powerful bow and who is the Lord of all healing. We worship the Divine Rudra with reverence, seeking peace, happiness and a tranquil mind.
अयम् मे हस्तो भगवानयम् मे भगवत्तरः ।
अयम् मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥
This hand of mine is blessed; this hand is especially blessed. This hand is the universal healer and the touch of this hand is auspicious.
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥
O Death, the thousands upon thousands of bonds that are intended to bind mortals—we offer all of them through the sacred power of the sacrifice. Svāhā to Death, Svāhā to Death.
ॐ नमो भगवते रुद्राय विष्णवे मृत्युर् मे पाहि ॥
Om. Salutations to Bhagavān Rudra, to Viṣṇu. Protect me from death.
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥
You are the vital knot of the life-breaths, O Rudra. May the destroyer of life not enter me. May You nourish and strengthen me through this sacred food.
नमो रुद्राय विष्णवे मृत्युर् मे पाहि ॥
Salutations to Rudra and Viṣṇu. Protect me from death.
सदाशिवोम् ।
Sadāśiva, the Eternal Auspicious Lord.
ॐ शान्तिः शान्तिः शान्तिः ।
Om. May there be peace, peace, peace.